|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.3. अध्यायः 003
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण ब्राह्मणभरणाय धौम्यचोदनया सूर्यस्तुतिः ॥ 1 ॥ स्तोत्रैः प्रसन्नेन सूर्येण युधिष्ठिरायाक्षयपात्रदानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-3-0x(1762)(15757)
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिः।
`प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम्।'
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीषिदम् ॥ 3-3-1(15758)
प्रस्थिताननुयातारो ब्राह्मणा वेदपारनाः।
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः ॥ 3-3-2(15759)
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे।
कथमत्र मया कार्यं तद्बूहि भगवन्मम ॥ 3-3-3(15760)
वैशम्पायन उवाच। 3-3-4x(1763)
मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम्।
युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः ॥ 3-3-4(15761)
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्।
ततोऽनुकम्पंयां तेषां सविता स्वपिता यथा ॥ 3-3-5(15762)
गत्वोत्तसयणं तेजो रसानुद्धृत्य रश्मिभिः।
दक्षिणायनमावृत्तो महीं वर्षति वारिणा ॥ 3-3-6(15763)
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीयतिः।
रवेस्तेजः समुद्धृत्य जनयामास वारिणा ॥ 3-3-7(15764)
निषिक्तश्चन्द्तेजोभिः सूयते जगतो रविः।
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ 3-3-8(15765)
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्।
नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज ॥ 3-3-9(15766)
राजानो हि महात्मानो योनिकर्मविशोधिताः।
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ 3-3-10(15767)
भौमेन कार्तवीर्येण वैन्येन नहुषेण च।
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ 3-3-11(15768)
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः।
तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ 3-3-12(15769)
वैशम्पायन उवाच। 3-3-13x(1764)
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः।
ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम्।
अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् ॥ 3-3-13(15770)
[विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः।
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥] 3-3-14(15771)
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्।
सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् ॥ 3-3-15(15772)
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्।
[शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः 3-3-16(15773)
युधिष्ठिर उवाच। 3-3-17x(1765)
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावतां ॥ 3-3-17(15774)
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम्।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ 3-3-18(15775)
त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते।
त्वयापवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ 3-3-19(15776)
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः।
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित ॥ 3-3-20(15777)
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः।
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ॥ 3-3-21(15778)
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वासिद्धिमागताः ॥ 3-3-22(15779)
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ 3-3-23(15780)
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ 3-3-24(15781)
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ 3-3-25(15782)
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ 3-3-26(15783)
सन्ति चान्यानि सत्वानिवीर्यवन्ति महान्ति च।
न तु तेषां तथा दीप्तिः प्रभावो वायथा तव ॥ 3-3-27(15784)
ज्योतीषित्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः।
त्वयिसत्त्वं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः ॥ 3-3-28(15785)
त्वत्तेजसा कृतंचक्रं सुनाभं विश्वकर्मणा।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ 3-3-29(15786)
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ 3-3-30(15787)
तपन्त्यन्ते दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ 3-3-31(15788)
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः।
शीतवातार्दितं लोकं यथा तव मरीचयः ॥ 3-3-32(15789)
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ 3-3-33(15790)
तव यद्युदयो न स्यादन्धं जगदिदं भवेत्।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ 3-3-34(15791)
आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ 3-3-35(15792)
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम्।
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ 3-3-36(15793)
मनूनां मनुपुत्राणां जगतोऽमानवस्य च।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ 3-3-37(15794)
संहारकाले संप्राप्ते तव क्रोधविनिःसृतः।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ 3-3-38(15795)
त्वद्दीधितिसमुत्पन्ना नानावर्ण महाघनाः।
सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम् ॥ 3-3-39(15796)
कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ 3-3-40(15797)
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं ॥ 3-3-41(15798)
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ 3-3-42(15799)
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ 3-3-43(15800)
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ 3-3-44(15801)
सप्तम्यागथवा षष्ठ्यां भक्त्या पूजां करोति यः।
अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् ॥ 3-3-45(15802)
न तेषामापदः सन्ति नाधयो व्याधयस्तथा।
ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम् ॥ 3-3-46(15803)
सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ 3-3-47(15804)
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः।
अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ॥ 3-3-48(15805)
येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ 3-3-49(15806)
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥] 3-3-50(15807)
वैशम्पायन उवाच। 3-3-51x(1766)
कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्।
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥ 3-3-51(15808)
विवस्वानुवाच। 3-3-52x(1767)
यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि।
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ 3-3-52(15809)
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप।
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ॥ 3-3-53(15810)
फलमूलामिषं शाकं संस्कृतं यन्महानसे।
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ 3-3-54(15811)
वैशम्पायन उवाच। 3-3-55x(1768)
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥ 3-3-55(15812)
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्।
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे ॥ 3-3-56(15813)
द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः।
महानसे तदान्नं तु साधयामास पाण्डवः ॥ 3-3-57(15814)
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्।
अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान् ॥ 3-3-58(15815)
भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि।
शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः ॥ 3-3-59(15816)
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती।
[द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ॥] 3-3-60(15817)
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः।
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः ॥ 3-3-61(15818)
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु।
इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥ 3-3-62(15819)
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः।
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥ 3-3-63(15820)
`जनमेजय उवाच। 3-3-64x(1769)
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि।
सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः ॥ 3-3-64(15821)
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः।
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥ 3-3-65(15822)
मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम्।
भगवन्नास्ति चेद्गुद्यं तच्च मे ब्रूहि सांप्रतम् ॥' 3-3-66(15823)
वैशम्पायन उवाच। 3-3-67x(1770)
शृणुष्वांवहितो राजञ्शुचिर्भूत्वा समाहितः।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ 3-3-67(15824)
धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ 3-3-68(15825)
सूर्योऽर्यभा भगस्त्वष्टा पूषाऽर्कः सविता रविः।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ 3-3-69(15826)
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ 3-3-70(15827)
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ 3-3-71(15828)
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः।
धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः ॥ 3-3-72(15829)
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः।
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ 3-3-73(15830)
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 3-3-74(15831)
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः।
वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा ॥ 3-3-75(15832)
भूताश्रयो भूतपति- सर्वभूतनिषेवितः।
`मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः।'
[स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः 3-3-76(15833)
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।]
जयो विशालो वरदः सर्वधातुनिषेचिता ॥ 3-3-77(15834)
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ 3-3-78(15835)
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 3-3-79(15836)
देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥ 3-3-80(15837)
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः।
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ 3-3-81(15838)
शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम्।
धौम्याद्युधिष्ठरः प्राप्य सर्वान्कमानवाप्तवान् ॥ 3-3-82(15839)
सुरगणपितृयक्षसेवितं
ह्यसुरनिशाचरसिद्धवन्दितम्।
वरकनकहुताशनप्रभं
त्वमपि मनस्यभिधेहि भास्करम् ॥ 3-3-83(15840)
सूर्योदये यः सुसमाहितः पठे-
त्त पुत्रदारान्धनरत्नसंचयान्।
लभेत जातिस्मरतां नरः सदा
धृतिं च मेधां च स विन्दते पुमान् ॥ 3-3-84(15841)
[इमं स्तवं देववरस्य यो नरः
प्रकीर्तयेच्छुचिसुमनाः समाहितः।
स मुच्यते शोकदवाग्निसागरा-
ल्लभेत कामान्मनसा यथेप्सितान् ॥ 3-3-85(15842)
[इमं स्तवं प्रयतमनाः समाधिना
पछेदिहान्योऽपि वरं समर्थयन्।
तत्त्स्य दद्याच्च रविर्मनीषितं
तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम् ॥ 3-3-86(15843)
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः ॥ 3-3-87(15844)
उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ 3-3-88(15845)
संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु।
मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ॥] 3-3-89(15846)
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-3-4 धर्मेण योगमयेन ॥ 3-3-6 तेजो रसान् जलानि। उद्धृत्य आदाय ॥ 3-3-7 ओषधीपतिश्चन्द्रः ॥ 3-3-11 तपोयोगः व्रतस्वीकारः तत्पूर्वकः समाधिर्ध्यानं तत्स्थैः ॥ 3-3-14 विप्रत्यागसमाधिस्थः विप्रेभ्यस्त्यागः त्यज्यमानमन्नं तदर्थं समाधिस्थः नियमस्थः ॥ 3-3-18 सांख्यानां ज्ञाननिष्ठानाम्। योगिनां चित्तनिरोधकानाम्। आवृणोतीत्यावृतं कपाटम्। कर्तरिक्तः। अर्गला कपाटविष्टम्भकं तिर्यक्काष्ठं तदुभयरहितं मुक्तिद्वारं त्वं मुमुक्षतां गतिः प्राप्यं पदम् ॥ 3-3-28 सत्त्यं सत् पृथिव्यप्तेजांसि। त्यत् वाय्वाकाशौ तदात्मकं सत्त्यम्। सत्त्वं बुद्धिसत्त्वम्। सात्विका भावाः धर्मो ज्ञानं विराग ऐश्वर्यमित्याद्याः ॥ 3-3-29 सुनाभं सुदर्शनम् ॥ 3-3-32 प्रावाराः वस्त्रविशेषाः ॥ 3-3-33 गोभिः रश्मिभिः ॥ 3-3-39 सैरावताः मेघस्योपरि यो मेघः स ऐरावतस्तत्सहिताः। आभूतं यावच्चतुर्विधभूतग्रामं तस्य संप्लवः जलेनाभिप्लावनम् ॥ 3-3-42 हन्ति गच्छति विश्वं संहरतीति वा हंसः वृषाकपिः हरो हरिर्वा ॥ 3-3-43 गवां रश्मीनाम् ॥ 3-3-44 सप्तसप्तिः सप्ताश्वः। धामकेशी ज्योतिर्मयकिरणवान् ॥ 3-3-45 अनिर्विण्णः पूजने आसक्तः ॥ 3-3-47 त्वद्भावभक्ताः सूर्यएव सर्वत्रास्तीति भावो भावना तत्र भक्ता आदृताः ॥ 3-3-48 श्रद्धया आतिथ्यं चिकीर्षत इति संबन्धः ॥ 3-3-49 अशनिक्षुभान् विद्युदशन्यादिप्रवर्तकान् ॥ 3-3-50 क्षुभामैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते ॥ 3-3-53 पिठरं परिवेषणपात्रम्। ताम्रं ताम्रमयम्। वर्त्स्यति वृत्तिं जनजीविकांरूपां करिष्यति। पात्रेण पात्रप्रसूतेनान्नेन ॥ 3-3-57 महानसे पाकशालायाम्। साघयामास कारयामास अन्नमिति शेषः ॥ 3-3-58 संस्कृतं पक्वम्। वन्यमन्नं चतुर्विधमिति क. पाठः ॥ 3-3-60 पार्षती पृषतः द्रुपदपितुः गोत्रापत्यम् ॥ 3-3-62 प्रवर्तन्ते निःसरन्ति। विधिमन्त्रप्रमाणतः। विधिर्वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिरज्ञापनरूपः। मन्त्रः अनुष्ठेयार्थस्मारक इषेत्वेत्यादिः। तावेव प्रमाणे ताभ्यामित्यर्थः ॥ 3-3-76 सर्वलोकनमस्कृत इति झ. पाठः ॥ 3-3-80 मैत्रेयः करुणान्वित इति झ. पाठः ॥ 80

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|